|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.284. अध्यायः 284
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मोक्षसाधनप्रतिपादकहारीतगीतानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-284-0x(6368)(76608)
किंशीलः किंसमाचारः किंविद्यः किंपरायणः।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्॥ 12-284-1(76609)
भीष्म उवाच। 12-284-2x(6369)
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्॥ 12-284-2(76610)
`अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर॥ 12-284-3(76611)
स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्॥ 12-284-4(76612)
न चक्षुषा न मनसा न वाचा दूषयेत्परम्।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्॥ 12-284-5(76613)
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत्।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ 12-284-6(76614)
अतिवादांस्तितिक्षेत नाभिमन्येत कंचन।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥ 12-284-7(76615)
प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत्।
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम्॥ 12-284-8(76616)
अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत्।
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः॥ 12-284-9(76617)
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः॥ 12-284-10(76618)
प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्॥ 12-284-11(76619)
लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः॥ 12-284-12(76620)
न चान्नदोषान्निन्देत न गुणानभिपूजयेत्।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्॥ 12-284-13(76621)
शून्यागारं वृक्षमूलमरण्यमथवा गुहाम्।
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत्॥ 12-284-14(76622)
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि॥ 12-284-15(76623)
नित्यतृप्तः सुसंतृष्टः प्रसन्नवदनेन्द्रियः।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः॥ 12-284-16(76624)
अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम्।
विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन्।
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः॥ 12-284-17(76625)
वाचो वेगं मनसः क्रोधवेगं
हिंसावेगमुदरोपस्थवेगम्।
एतान्वेगान्विनयेद्वै तपस्वी
निन्दा चास्य हृदयं नोपहन्यात्॥ 12-284-18(76626)
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः।
एतत्पवित्रं परमं परिव्राजक आश्रयेत्॥ 12-284-19(76627)
महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः।
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः॥ 12-284-20(76628)
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्॥ 12-284-21(76629)
विजानतां मोक्ष एष श्रमः स्यादविजानताम्।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्॥ 12-284-22(76630)
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्।
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते॥ ॥ 12-284-23(76631)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः॥ 284॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-284-2 प्राप्नोति ब्रह्मणः स्थानमिति झ. थ. पाठः॥ 12-284-4 समुषोढेषूपस्थितेष्वपि। संमुखेषु च कामेषु इति ट. ध. पाठः। समो दुःखेषु कामेषु इति थ. पाठः॥ 12-284-6 मैत्रायणगतो मित्रः सूर्यस्तस्येदं मैत्रं तदयनं गमनं तच्च मैत्रायणं तत्र गतः। सूर्यवत्प्रत्यहं विभिन्नमार्गः। ग्रामैकरात्रविधिना चरेदित्यर्थः मैत्रायणगतिं चरेदिति ट. ड. पाठः॥ 12-284-7 नातिमन्येत्कथंचनेति ट. ड. पाठः॥ 12-284-8 ग्राममध्ये जनसमाजे प्रदक्षिणमनुकूलं सव्यं प्रतिकूलं वा नाचरेत्॥ 12-284-9 अवतीर्णः सुगुप्तश्चेति ट. ध. पाठः। अप्रियं वददिति झ. पाठः। अवकीर्णो मूढैः पांसुभिश्छन्नः। धिक्कृत इत्यर्थः। तथापि सुगुप्तोऽचपलः स्वधर्मे निष्ठावान्॥ 12-284-11 अनुयात्रिकमर्थी स्यादिति ड. पाठः॥ 12-284-12 साधारणं सर्वंयोग्यं स्रक्बुन्दनादिलाभम्॥ 12-284-16 ध्यानजल्पपरो मौनीति ट. ड. पाठः॥ 12-284-17 सव्यक्तं भौतिकं स्वर्ग्यं इति ड. ध. पाठः। निःस्पृहः समदर्शी चेति झ. पाठः। सुव्रतो दान्त इति ट. ड. पाठः॥ 12-284-20 अज्ञातनिष्ठां लिप्सेतेति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|